Folgen
-
वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां
लीलास्मेरो जयति ललिताम् आस्थितः कुन्दशाखाम्।
सव्रीडभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित् करकमलयोरञ्जलिं याचमानः॥
इत्यनन्य मनसा विनिर्मितां वेङ्कटेशकविना स्तुतिं पठन् ।
दिव्यवेणुरसिकं समीक्षते दैवतं किमपि यउवतप्रियम्॥ -
प्रत्यालीढ-स्थितिमधिगतां प्राप्त-गाढाङ्गपालिं
पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः।
भस्त्रायन्त्र-प्रणिहितकरो भक्तजीवातुरव्यात्
वारिक्रीडा-निबिड-वसनो वल्लवीवल्लभो नः॥ -
Fehlende Folgen?
-
लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्याम्
अंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः।
मेघश्यामो जयति ललितो मेखलादत्तवेणुः
गुञ्जापीड-स्फुरित-चिकुरो गोपकन्याभुजङ्गः॥ -
चित्राकल्पः श्रवसि कलयन् लाङ्गली-कर्णपूरं बर्होत्तंस-स्फुरित-चिकुरो बन्धुजीवं दधानः। गुञ्जाबद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी।।
-
जयति ललितवृत्तिं शिक्षितो वल्लवीनां शिथिल-वलय-शिञ्जा-शीतलैर्हस्ततालैः। अखिल-भुवन-रक्षा-गोपवेषस्य विष्णोः अधरमणिसुधायाम् अंशवान् वंशनालः।। Dr. C. Hariharan presents short episodes in this podcast series where great shlokas from Sanskrit literature can be listened with simple explanations.
-
महसे महिताय मौलिना विनतेनाञ्जलिमञ्जनत्विषे।
कलयामि विमुग्ध-वल्लवी-वलयाभषित-मञ्जु-वेणवे॥ Dr. C. Hariharan presents short episodes in this podcast series where great shlokas from Sanskrit literature can be listened with simple explanations. -
हृदि मुग्ध-शिखण्ड-मण्डनो लिखितः केन ममैष शिल्पिना। मदनातुर-वल्लवाङ्गना-वदनाम्भोज-दिवाकरो युवा।।
-
अखिलानवलोकयामि कामान् महिलाधीन-भुजान्तरस्य यूनः। अभिलाषपदं व्रजाङ्गनानां अभिलापक्रम-दूरमाभिरूप्यम्।।
-
अधराहित-चारु-वंशनालाः मकुटालम्बि-मयूर-पिच्छमालाः।
हरिनीलशिलाविभङ्गनीलाः प्रतिभास्सन्तु ममान्तिमप्रयाणे॥ -
अनुयायि मनोज्ञ वंश नालैः
अवतु स्पर्शित वल्लवी विमोहैः ।
अनघ स्मित शीतलैरसौ माम्
अनुकम्पा सरिदम्बुजैरपाङ्गैः ॥ ११ ॥ image source google, text source harekrsna.de -
अनिमेष निषेवणीयमक्ष्णोः
अजहद्यौवन माविरस्तु चित्ते ।
कलहायित कुन्तलं कलापैः
करणोन्मादक विभ्रमं महो मे ॥ १० ॥ image source google. Text source harekrsna.de -
पदवीम् अदवीयसीं विमुक्तेः
अटवी संपदम् अम्बु वाहयन्तीम् ।
अरुणाधर साभिलाष वंशां
करुणां कारण मानुषीं भजामी ॥ ९ ॥ image source: google. Text source : http://www.harekrsna.de/artikel/gopala-vimsati.htm -
8th Shloka of Gopalavimshati written by Vedanta Deshika explained in Tamil.
-
7th Shlika of Gopalavimshati explained in Tamil.
-
6th Shloka of Gopalavimshati explained in Tamil
-
5th Shloka of gopalavimshati explained in Tamizh.
-
आविर्भवत्वनिभृताभरणं पुरस्तात् आकुञ्चितैकचरणं निभृतान्यपादम्। दध्ना निमन्थमुखरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ।। 4th shloka explained in Tamizh.
-
3rd shloka of Gopalq Vimshati explained in Tamizh
-
2nd Shloka of Gopala Vimshati explained in Tamil
-
1st shloka ecplained in Tamil
- Mehr anzeigen